सम्पादकीयम् धर्मेण हीनाः पशुभिः समानाः भारतीयसंस्कृतेः समग्रदर्शनस्य सारभूतोऽयं नीतिवचनरत्नं मानवजीवनस्य परमं प्रयोजनं सुस्पष्टतया प्रकाशयति। आहारः, निद्रा, भयम्, मैथुनम् - एते प्रवृत्तयः सर्वेषां प्राणिनां समानाः स्वाभाविकधर्माः। मनुष्यस्य विशिष्टता न शरीरे, न बुद्धौ, न सम्पत्तौ, न पदे, अपितु धर्मे एव प्रतिष्ठिता। धर्म एव मनुष्यं मनुष्यत्वेन विभूषयति, धर्म एव तस्य जीवनं मूल्यवत्, मर्यादितं, लोकहितकरं च करोति । अद्यत्वे विज्ञानस्य, प्रौद्योगिक्याः, भौतिक-समृद्धेश्चाद्भुतो विकासो दृश्यते; परन्तु तदनुरूपं नैतिकचेतनायाः, सामाजिकदायित्वबोधस्य, आत्म-संयमस्य च ह्रासोऽपि स्पष्टरूपेण अनुभूयते। यत्र धर्मस्य स्थाने स्वार्थः, संयमस्य स्थाने भोगलालसा, सेवायाः स्थाने स्पर्धा, सत्यस्य स्थाने मिथ्याचारः प्रतिष्ठाप्यते, तत्र समाजस्य अधःपतनं भवति।