गाण्डीवम्

वाराणस्यां स्थिते प्राचीनगौरवसम्पन्ने सम्पूर्णानन्दसंस्कृतविश्वविद्यालये ७७तमो गणतन्त्रदिवससमारोहो राष्ट्रभक्तिभावेन, ऐतिहासिकस्मृतिचेतनया च समलङ्कृतः समायोजितः। अस्मिन् पावनावसरे विश्वविद्यालयस्य कुलपतिना प्रो. बिहारीलालशर्ममहोदयेन विश्वविद्यालयस्य ऐतिहासिकमुख्यभवनस्य समक्षं ध्वजोत्तोलनं विधाय राष्ट्रध्वजस्य सम्माननं विहितम्। ततोऽनन्तरं राष्ट्रगानस्य समवेतस्वरगायनेन सम्पूर्णः परिसरो देशभक्तिरसेन परिप्लावितः।