गाण्डीयस्याङ्कोऽयमाचार्यशिवजी उपाध्यायवर्याणां स्मृतौ प्रकाश्यते। आचार्यशिवजीउपाध्यायमहोदया बहोः कालात् गाण्डीवपत्रिकायाः सहायका: प्रोत्साह- काश्चासन् । अतस्तेषां स्मृतावङ्कप्रकाशननिर्णयोऽस्माभिर्गृहीतः । प्रो० उपाध्यायाः सम्पूर्णानन्दसंस्कृत- विद्यालयीये साहित्य विभागाचार्या आसन्। काव्य निर्माणकलायां परम प्रवीणास्ते नैककाव्यानां प्रणयण-मकार्षुः। तेषां लेखनी मुखात् काव्यप्रयाहोऽजस्त्र प्रवहति स्म। मया उपाध्याय वर्यतुल्या सिद्धकवयो नैव दृष्टाः। एवमेव नाट्यप्रणयने निर्देशने चासन् तेऽग्रगण्याः । तन्निर्देशनेऽस्माभिः बहुषु नाटकषु पात्रत्वेन भागो गृहीतः । एवमेव व्याख्यान कलायामप्यासन् ते परमसिद्धाः । तन्मुखान्निः सरन्तीं संस्कृतवाणीं श्रुत्वा सर्वे मोदमाना जायन्ते स्म । न केवलं साहित्यविद्यायामेवातु व्याकरण-न्याय - धर्म-शास्त्र पुराणादिविषयेष्वपि तेषामविहतगतिरासीत्। तेषां दर्शन शास्त्र-पुराणादिविषयेष्वपि तेषामविहतगतिरासीत्। तेषां दर्शनमात्रेण वाराणसेयविद्वत्परम्परास्मरणं जायते स्मा शुभ्रवेशाः प्रमुदिताननाश्चोपाध्यायवर्याः पण्डितराज लक्षणान्विता आसन्। तत्कृते सुभाषितमिदं सुतरां सङ्गतिं लभते-
आसीदेकः कृषकः । तस्य चत्वारः बालकाः आसन्। कृषकस्य भार्या नासीत्। कृषकः कृषिकर्म कृत्वा बालकान् पोषयति स्म। सोऽसौ स्वयं भोजनं निर्माय बालकान् भोजयति स्म। स्वयमल्पमपि भुञ्जानः पूर्णाहारेण परिपूरयदात्मनः पुत्राणामुदरम् । कृषकस्य सर्वे बालकाः कालक्रमेण शनै: शनै युवानः सञ्जाताः उच्चशिक्षा प्राप्तुं नगरं प्रति संपूरिता सञ्जाता। चत्वारोऽपि पुत्राः पुरुषार्थरतिक्रम्यवृत्तिं अलभन्त। कृषकस्य ज्येष्ठपुत्र अध्ययनं समाप्य अभियन्ता सञ्जाताः । द्वितीयः पुत्र नगरक्षक सञ्जातः, तृतीयश्च नगरे वणिग्वृत्तिं स्वीकृतवान् । चतुर्ष्वपत्येषु तुरीयः पुत्रः यद्यप्यासीद् संस्कृतविद्यां निपुणं शिक्षितश्च तथापि नालभत कामपि नगरे वृत्तिम्। असौ ग्रामे पितुः पार्श्वे आगत्य पितुः कृषिकर्मणि साहाय्यं विदधाति स्म । ग्रामस्य बालकान् अपि पाठयति स्म। कृषकस्य यः पुत्र अभियन्ता आसीद् सः नगरे एवं कामपि मनोनीता कन्यां जायारूपेण स्वीकृतवान् । कृषकस्य पुत्रोऽसौ यदा कदा ग्रामे पितुः पार्श्वे आगत्य स्वकीयाद् उपार्जिताद् द्रव्याद् किञ्चिद् द्रव्यं दत्वा पुनः नगरे एव प्रयाति स्म। यः नगररक्षकः पुत्रः आसीत् स उत्कोचेन अर्थोपार्जनं करोति स्म। यश्च तृतीयः पुत्रः व्यापारे संसक्त आसीद् तस्यापि आचरणं सम्यक् नासीत्। सः आपणे स्थितेषु खाद्यपदार्थेषु अखाद्यपदार्थानां सम्मिश्रिणं दषितान् विधीम् आपणे प्रत्यहं विक्रयं करोति स्म।