“द्वितीयातृतीयासप्तमीनामाश्रयोऽर्थ " इति। इत्थञ्च कर्तरि विधीयमाना या तृतीया तस्याः कर्तृत्वमेवाऽर्थो युक्तो भवति। कर्तृत्वञ्च प्रधान धात्वर्थव्यापाराश्रयत्वम्। एवञ्चात्र व्यापारस्य धातुलभ्यत्वाद् 'अनन्यलभ्यो हि शब्दार्थ:' इति रीत्या आश्रयत्वमेव कर्तृतृतीयार्थ इति फलति ।