गाण्डीवम्

सम्पादकीयम् अभिमानो न कर्तव्यः समाजे प्रायो दृश्यते यत् बहवो जनाः स्ववैशिष्ट्यं साधयितुं यतमाना अवलोक्यन्ते। शतं जनैः सह यदि मेलनं भवेत् तदा प्रायः ४८० जनाः येन केन प्रकारेण स्वप्रशंसानिरताः दृश्यन्ते। तेषु बहवोऽसत्यभाषणशीला अपि भवन्ति। एतत् न केवलं सामान्या अपठिता जनाः कुर्वन्ति, अपितु विद्वांसः साधवः, त्यागिनः, ज्ञानिनश्च कुर्वन्ति। अस्माभिरिदं विज्ञेयं यत् स्वमुखात् वैशिष्ट्य- ख्यापनेन न कोऽपि श्रेष्ठो भवति। संस्कृतशास्त्राण्य- धीत्याध्यात्मिकमार्गे रममाणा जना अपि यदि पामरजनवत् स्ववैशिष्ट्यख्यापनव्यग्रा भवेयुस्तदा कां कथान्येषाम- ज्ञानसागरे पतितानाम्। अस्माकं शास्त्रं निर्दिशति- सर्वशिष्यो भवेत् सदा। दासानुदासोऽहम्, श्रद्धां भागवते शास्त्रे अनिन्दामन्यत्र चैव हि। परन्तु परं विज्ञायापि स्वाभिमानाभिभूताः अन्यान् तुच्छान् गणयन्ति, एवं विधानां जनानां पतनं सुनिश्चितम्। धार्मिकजनानां विदुषाञ्च पारस्परिकं कलहं विलोक्य, अधार्मिका जना मोदन्ते, सामान्यजनानाञ्च धार्मिकजनान् प्रत्यश्रला जायते। सर्वैरिदमवधेय च यद्यहम् अन्येषां मनसा वाचा कर्मणा च सम्मानं रूपेण तदा तेऽपि मम सम्माननं करिष्यन्ति। यथा बीजं क्रियते तथैव वृक्षो जायते। तिलकधारणं केशधारण साधुवस्त्रधारणं च सरलं किन्तु कामक्रोधलोभा दिदोषाणां नियन्त्रणं जायते। अतः स्वात्मचिन्तनं विधेयं लोकैः। कामादिदोषास्त्याज्याः। अभिमानो न कर्तव्यः। प्रधानसम्पादकः