गाण्डीवम्

सम्पादकीयम् त्याज्यं न धैर्यं विकटेऽपि काले अस्माकं जीवने नैके पातोत्पाताः समायान्ति काले काले। मनुष्यजीवनमिदं द्वन्द्वात्मकं विद्यते। प्रत्यहं सुखानि- दुःखानि न समायान्ति यान्ति च। न सर्वदा सुखं तिष्ठति न च दुःखम्। अज्ञानपाशबद्धो मानवः सर्वदा सुखमिच्छति न दुःखम्। सुखदुःखयोर्विषये सुभाषितकर्त्रा निगदितं विद्यते- सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च।। एवं बोधयुक्ता जना अपि विद्वांसोऽपि संकटापन्नकाले धैर्यच्युता भवन्ति, भयभीता भवन्ति, पलायनं कुर्वन्ति, तथापि दुःखस्यान्तो न दृश्यते। अत एव शास्त्रं वदति त्याज्यं न धैर्यमिति। यद्यपि सर्वकाले तत्कालीनसमस्याग्रस्तो ग्रस्तो मानवो व्यतीतकालं प्रशंसन्ति वर्तमानं कालं च निन्दति। एवमेव परदेशं प्रशंसति स्वदेशं निन्दति। परग्रामं प्रशंसति स्वग्रामं निन्दति। कथयन्ति जनाः प्रायो यस्यां संस्थायामहं सेवां करोमि सा संस्था सर्वदोषतां अगत्या जनाः परस्परं निन्दन्ति, युद्धयन्ते कलहायन्ते च। अस्मिन् ग्रामे एकता नास्ति प्रायः सर्वे चौराः सन्ति। संसंस्थाप्रशंसारता जना अङ्गुलिगण्या भवन्ति। एवमेव लघ्वीं समस्यां दृष्ट्वा स्ववासस्थानं स्वदेशं वा त्यक्तुमुद्यता भवन्ति। ते न जानन्ति यत् यत्र यत्राहं यास्यामि तत्र तत्र मम भाग्यं सर्वाः समस्याश्च गमिष्यन्ति। उक्तञ्च- नागार्जुन अधिकारी, आशीषमणित्रिपाठी पञ्च तत्रैव यास्यन्ति यत्र यत्रैव गच्छसि। उपकार्योपकर्ता च मित्रोदासीनशत्रवः ।। अतः अस्माभिः सर्वदोत्साहयुतैर्भाव्य, संहतैर्भाव्यम्, सर्वदोद्योगपरैर्भाव्यम्, देशकालपरिस्थितिबोधसम्पन्नैर्भाव्यम्।