गाण्डीवम्

सम्पादकीयम् गाण्डीवपाठकेभ्यः सादरं प्रणतिः नैवेद्य एषोऽङ्कः भवत्ककरकमलेषु पुनः समर्प्यते। वर्तमानकालोऽयं संस्कृतस्य कृते चिन्तनकालः। यतो हि संस्कृताध्ययनं प्रति जनानां रुचिः क्षीयमाणा अवलोक्यते। संस्कृतविश्वविद्यालयेषु विद्याग्रहणार्थं ये छात्राः समागताः तेष्वपि समुत्साहो न दृश्यते। येन केनाप्युपायेन परीक्षामुत्तीर्य प्रमाणपत्रार्जनमेव लक्ष्यं विलोक्यते प्रायः सांप्रतिकानां छात्राणाम्। येनोपायेन प्रमाणपत्राणि समर्जितानि तेनैव प्रकारेण सेवां प्राप्तुम् अपि यतन्ते ते। सामाजिक- भ्रष्टव्यवस्थाकारणात् बहुत्र ते सेवाप्राप्तयेऽपि सफला भवन्ति।एकोऽयोग्यो जनः प्रायः ४० वर्षाणि यावत् विद्यानाशं करोति।वर्तमाने प्राय एवं विधा एव जना विद्यालयेषु नियोज्यमानाः सन्ति।अयं विषयः प्रायः सर्वैः ज्ञायतेऽधिकारिभिः पदाधिकारिभिश्च।तथाप्यस्य निरोधाय न केऽपि सक्षमाधिकारिणः प्रयत्नरता दृश्यन्ते। यावद् योग्यतायाः सम्मानो न भविष्यति तावत् संस्कृताध्ययने लोकप्रवृत्तिरपि न भविष्यति !नमो नमः सहृदयपाठकेभ्यः ।