गाण्डीवम्

सुरभारती विजयताम् संस्कृतं भारतवर्षस्य सर्वस्वमस्ति। संस्कृत- भाषायामेव भारतस्य सर्वोऽपि निब्बद्धो विद्यते। संस्कृतभाषाज्ञानं विना कोऽपि जन आत्मज्ञानं कर्तुं न प्रभवति उक्तञ्च- जानाति विविधा भाषा जानाति विविधाः कलाः। आत्मानं नैव जानाति यो न जानाति संस्कृतम् ।। अपि च - विज्ञानं वेदसाहित्यं दर्शनं सार्वदेशिकम् । अन्तरा संस्कृतज्ञानं परिपूर्ण न जायते।। अपि च - विना वेदं विना गीतां विना रामाययीं कथाम्। विना कविं कालिदासं भारतं भारतं नहि।। एभिः कथनैः स्पष्टतया वक्तुं शक्यते यत् संस्कृतं विना भारतस्य धर्मसंस्कृतिपरम्परादिविषये स्पष्टतया ज्ञातुं न शक्यते। अतः सर्वैः भारतीयैः सर्वतोभावेन संस्कृतस्य ज्ञानं करणीयम्। संस्कृतभाषाकारणादेव जगतीतले भारतवर्षस्य यशो गीयते। अत एवोच्यते- विश्वबन्धुत्वविस्तारकं संस्कृतम् सर्वभूतैकताकारकं संस्कृतम्। सर्वतः शान्तिसंस्थापकं संस्कृतम् सत्यनिष्ठं शिवं सुन्दरं संस्कृतम्।।