गाण्डीवम्

सम्पादकीयम् विजयतां व्यावहारिकं नववर्षम् अस्मिन् नववर्षे २०२५ तमे स्वागतं सर्वेभ्यः गाण्डीवग्राहकेभ्यः पाठकेभ्यः सहृदयेभ्यश्च। यद्यपि भारतीयं नववर्षं चैत्रशुक्लप्रतिपत्तिथितः प्रारप्स्यते। वस्तुतस्तदेवास्माकं नववर्षम्। यतो हि तदानीं प्रकृतिरपि नवायते। तथापि व्यवहारे जनवरीमासोऽयं नववर्षरूपेण सम्मान्यते। यतो हि प्रायः जन्मतिथेरारभ्य सर्वाः तिथयः ईशवीयतिथावेव समुल्लिख्यन्ते, सम्मान्यन्ते च। अतः व्यावहारिकनववर्षस्वीकरणे न कापि विप्रतिपत्तिर्दृश्यते। अथ नववर्षमिदं प्रायो वैश्विकरूपेण सम्मान्यते। सर्वेषु राष्ट्रेषु उत्सवा समायोज्यन्ते। अस्मिन् वर्षेऽपि भवतां सहयोगेन गाण्डीवमिदं सम्यक् रूपेण प्रचलेत्। स्वस्वस्थानेषु ये ये संस्कृत-संस्कृतिसम्बद्धा वृत्तान्ताः भवन्ति तान् भवन्तः भवन्तः कृपया विलिख्य प्रेषयन्तु। टङ्कणं कृत्वा वाट्स एप माध्यमेनापि प्रेषयितुं शक्यते। लेखाः कविताः अपि प्रेषणीयाः, येन वृत्तेषु वैविध्यं स्यात्। भारतसर्वकारस्य स्वल्पसहयोगमाध्यमेन पत्रिकेयं जीवति। अत्र भवद्भिः अपि मध्ये मध्ये कृपा विधेया। सर्वेभ्यो नववर्षे भूयो भूयो नमो नमः।