सम्पादकीयम् कालस्य सर्वं वशे जगतीतले प्रायो जनाः कालमहिमानम् अजान्तः आत्मनो वैशिष्ट्यं ख्यापयन्तो भवन्ति। अहमेतत्कृतवान् तत्कृतवा इति व्याख्याननिरता दृश्यन्ते लोकाः प्रायशः। कालमहिम्ना सर्व सम्पद्यते इति सूचितं शास्त्रेण। तद् विज्ञायास्माभिः शास्त्रज्ञैर्वर्तितव्यम्। यत् कार्यमस्माभिः कृतमिति वयं मन्यामहे तथाविधानि कार्याणि बहोः कालात् बहुभिः कृतानि सन्ति। अस्माभिरत्र जीवने किं तथा नवीनम् अनितर-साधारणञ्च कृतम् ? यत् अन्यैर्न कृतं भवेत् ? आहारनिद्राभयमैथुनसम्बद्धानि कार्याण्येव प्रायः सर्वैः क्रियमामाणि दृश्यन्ते ? किन्तत्र वैशिष्ट्यम् ? अतः कालमहत्त्वं विज्ञाय तदनुसारं वर्तितव्यं विचक्षणैः।